|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.226. अध्यायः 226
Mahabharata - Adi Parva - Chapter Topics
पाण्डवानां हास्तिनपुरगमनंप्रति श्रीकृष्णद्रुपदयोरश्यनुज्ञा॥ 1 ॥ पृथाविदुरसंवादः॥ 2 ॥
प्रस्थितानां पाण्डवानां द्रुपदेन पारिबर्हदानम्॥ 3 ॥
प्रत्युद्गमनायागतैः कौरवैः सह पाण्डवानां भीष्मादिवन्दनपुरःसरं गृहप्रवेशः॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
द्रुपद उवाच। 1-226-0x(1231)(9766)
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम्।
ममापि परमो हर्षः संबन्धेऽस्मिन्कृते प्रभो॥ 1-226-1(9767)
गमनं चापि युक्तं स्याद्दृढमेषां महात्मनाम्।
न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा॥ 1-226-2(9768)
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः।
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ॥ 1-226-3(9769)
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः।
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ॥ 1-226-4(9770)
युधिष्ठिर उवाच। 1-226-5x(1232)
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः।
यथा वक्ष्यसि नः प्रीत्या तत्करिष्यामहे वयम्॥ 1-226-5(9771)
वैशम्पायन उवाच। 1-226-6x(1233)
ततोऽब्रवीद्वासुदेवो गमनं रोचते मम।
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित्॥ 1-226-6(9772)
द्रुपद उवाच। 1-226-7x(1234)
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः।
प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम॥ 1-226-7(9773)
यथैव हि महाभागाः कौन्तेया मम सांप्रतम्।
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः॥ 1-226-8(9774)
न तद्ध्यायति कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः।
यथैषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः॥ 1-226-9(9775)
वैशम्पायन उवाच। 1-226-10x(1235)
`पृथायास्तु ततो वेश्म प्रविवेश महामतिः।
पादौ स्पृष्ट्वा पृथायास्तु शिरसा च महीं गतः॥ 1-226-10(9776)
दृष्ट्वा तु देवरं कुन्ती शुशोच च मुहुर्मुहुः। 1-226-11(9777)
कुन्त्युवाच।
वैचित्रवीर्य ते पुत्राः कथंचिज्जीवितास्त्वया॥ 1-226-11x(1236)
त्वत्प्रसादाज्जतुगृहे मृताः प्रत्यागतास्तथा।
कूर्मी चिन्तयते पुत्रान्यत्र वा तत्र संमता॥ 1-226-12(9778)
चिन्तया वर्धिताः पुत्रा यथा कुशलिनस्तथा।
तव पुत्रास्तु जीवन्ति त्वद्भक्त्या भरतर्षभ॥ 1-226-13(9779)
यथा परभृतः पुत्रानरिष्टा वर्धयेत्सदा।
तथैव पुत्रास्तु मम त्वया तात सुरक्षिताः॥ 1-226-14(9780)
क्लेशास्तु बहवः प्राप्तास्तथा प्राणान्तिका मया।
अतः परं न जानामि कर्तव्यं ज्ञातुमर्हसि॥ 1-226-15(9781)
विदुर उवाच। 1-226-16x(1237)
न विनश्यन्ति लोकेषु तव पुत्रा महाबलाः।
अचिरेणैव कालेन स्वराज्यस्था भवन्ति ते॥ 1-226-16(9782)
बान्धवैः सहिताः सर्वे न शोकं कुरु माधवि। 1-226-17(9783)
वैशम्पायन उवाच।'
ततस्ते समनुज्ञाता द्रुपदेन महात्मना॥ 1-226-17x(1238)
पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः।
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम्॥ 1-226-18(9784)
सविहारं सुखं जग्मुर्नगरं नागसाह्वयम्।
`सुवर्णकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान्॥ 1-226-19(9785)
जाम्बूनदपरिष्कारान्प्रभिन्नकरटामुखान्।
अधिष्ठितान्महामात्रैः सर्वशस्त्रसमन्वितान्॥ 1-226-20(9786)
सहस्रं प्रददौ राजा गजानां वरवर्मिणाम्।
रथानां च सहस्रं वै सुवर्णमणिचित्रितम्॥ 1-226-21(9787)
चतुर्युजां भानुमच्च पञ्चानां प्रददौ तदा।
सुवर्णपरिबर्हाणां वरचामरमालिनाम्॥ 1-226-22(9788)
जात्यश्वानां च पञ्चाशत्सहस्रं प्रददौ नृपः।
दासीनामयुतं राजा प्रददौ वरभूषणम्।
ततः सहस्रं दासानां प्रददौ वरधन्वनाम्॥ 1-226-23(9789)
हैमानि शय्यासनबाजनानि
द्रव्याणि चान्यानि च गोधनानि।
पृथक्पृथक्वैव ददौ स कोटिं
पाञ्चालराजः परमप्रहृष्टः॥ 1-226-24(9790)
शिबिकानां शतं पूर्णं वाहान्पञ्चशतं नरान्॥ 1-226-25(9791)
एवमेतानि पाञ्चालो जन्यार्थे प्रददौ धनम्।
हरणं चापि पाञ्चाल्या ज्ञातिदेयं च सोमकः॥ 1-226-26(9792)
धृष्टद्युम्नो ययौ तत्र भगिनीं गृह्य भारत।
नानद्यमानो बहुशस्तूर्यघोषैः सहस्रशः॥' 1-226-27(9793)
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽम्बिकासुतः।
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान्॥ 1-226-28(9794)
विकर्णं च महेष्वासं चित्रसेनं च भारत।
द्रोणं च परमेष्वासं गौतमं कृपमेव च॥ 1-226-29(9795)
तैस्तैः परिवृताः शूरैः शोभमाना महारथाः।
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा॥ 1-226-30(9796)
`पाण्डवानागताञ्छ्रुत्वा नागरास्तु कुतूहलात्।
मण्डयाञ्चक्रिरे तत्र नगरं नागसाह्वयम्॥ 1-226-31(9797)
मुक्तपुष्पावकीर्णं तु जलसिक्तं तु सर्वतः।
धूपितं दिव्यधूपेन मङ्गलैश्चाभिसंवृतम्॥ 1-226-32(9798)
पताकोच्छ्रितमाल्यं च पुरमप्रतिमं बभौ।
शङ्खभेरीनिनादैश्च नानावादित्रनिस्वनैः॥' 1-226-33(9799)
कौतूहलेन नगरं पूर्यमाणमिवाभवत्।
यत्र ते पुरुषव्याघ्राः शोकदुःखसमन्विताः॥ 1-226-34(9800)
`निर्गताश्च पुरात्पूर्वं धृतराष्ट्रप्रबाधिताः।
पुनर्निवृत्ता दिष्ट्या वै सह मात्रा परन्तपाः॥ 1-226-35(9801)
इत्येवमीरिता वाचो जनैः प्रियचिकीर्षुभिः।'
तत उच्चावचा वाचः प्रियाः सर्वत्र भारत॥ 1-226-36(9802)
उदीरितास्तदाऽशृण्वन्पाण्डवा हृदयंगमाः। 1-226-37(9803)
पौरा ऊचुः
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित्॥ 1-226-37x(1239)
यो नः स्वानिव दायादान्धर्मेण परिरक्षति।
अद्य पाण्डुर्महाराजो वनादिव मनःप्रियम्॥ 1-226-38(9804)
आगतश्चैवमस्माकं चिकीर्षन्नात्र संशयः।
किं न्वद्य सुकृतं कर्म सर्वेषां नः प्रियं परम्॥ 1-226-39(9805)
यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः।
यदि दत्तं यदि हुतं यदि वाप्यस्ति नस्तपः।
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम्॥ 1-226-40(9806)
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः।
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम्॥ 1-226-41(9807)
पृष्टास्तु कुशलप्रश्नं सर्वेण नगरेण ते।
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात्॥ ॥ 1-226-42(9808)
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि षड्विंशत्यधिकद्विशततमोऽध्यायः॥ 226 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|